- 1 973
- 58 587 380
Rajendra Kumar Vyas Palji
India
Приєднався 1 тра 2013
मेरे चैनल का एक मात्र उद्देश्य वैदिक परम्परा को आगे बढ़ाना मात्र है | आज के व्यस्त जीवन में न तो संस्कृत स्तोत्र ,वेद मन्त्र आदि सिखाने वालों के पास इतना समय है ना ही सीखने वालों के पास | मन में बहुत पीड़ा अनुभव होती है कि इस कलिकाल में सभी वर्ण विशेषकर ब्राह्मण वैदिक परम्परा और धार्मिक ग्रंथों से विमुख हो रहे है | इसे ही ध्यान में रखकर सोशियल मीडिया के सशक्त माध्यम यूट्यूब की मदद से रुद्री और विभिन्न स्तोत्रों को अपलोड करने की इच्छा उत्पन्न हुई जिसे गुरु महाराज की असीम कृपा से आप लोगों की सेवार्थ धीरे धीरे कुछ न कुछ अपलोड कर रहा हूँ | इस चैनल में अपलोडेड सभी विडियो मेरे खुद ( मेरी टीम सहित ) की ORIGINAL CREATION है | आशा करता हूँ कि आपका सहयोग,आशीर्वाद और स्नेह इसी तरह मुझे मिलता रहेगा |
जय शंकर /जय श्री दादाजी गुरु महाराज की |
ॐ कार निर्विकारं शम्भू कैलाश वाले रक्षा करो हमारी श्री दादाजी धूनी वाले ॐ नमो नर्मदे माई रेवा पार्वती वल्लभ सदा शिवा |
ॐ हरी ॐ हरी हरी ॐ भज दत्त दिगंबर गुरु शिवदत्त ॐ |
जय शंकर /जय श्री दादाजी गुरु महाराज की |
ॐ कार निर्विकारं शम्भू कैलाश वाले रक्षा करो हमारी श्री दादाजी धूनी वाले ॐ नमो नर्मदे माई रेवा पार्वती वल्लभ सदा शिवा |
ॐ हरी ॐ हरी हरी ॐ भज दत्त दिगंबर गुरु शिवदत्त ॐ |
॥ नारायणकवचम्॥ ॥ Narayan kavacham॥
॥ श्रीनारायणकवचम्॥
॥ ॐ श्रीगणेशाय नमः॥
॥ ॐ नमो नारायणाय॥
अङ्गन्यासः -
ॐ ॐ नमः पादयोः । ॐ नं नमः जानुनोः ।
ॐ मों नमः ऊर्वोः । ॐ नां नमः उदरे ।
ॐ रां नमः हृदि । ॐ यं नमः उरसि ।
ॐ णां नमः मुखे । ॐ यं नमः शिरसि ॥
करन्यासः -
ॐ ॐ नमः दक्षिणतर्जन्याम् ।
ॐ नं नमः दक्षिणमध्यमायाम् ।
ॐ मों नमः दक्षिणानामिकायाम् ।
ॐ भं नमः दक्षिणकनिष्ठिकायाम् ।
ॐ गं नमः वामकनिष्ठिकायाम् ।
ॐ वं नमः वामानामिकायाम् ।
ॐ तें नमः वाममध्यमायाम् ।
ॐ वां नमः वामतर्जन्याम् ।
ॐ सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि ।
ॐ दें नमः दक्षिणांगुष्ठाय पर्वणि ।
ॐ वां नमः वामांगुष्ठोर्ध्वपर्वणि ।
ॐ यं नमः वामांगुष्ठाय पर्वणि ॥
विष्णुषडक्षरन्यासः -
ॐ ॐ नमः हृदये । ॐ विं नमः मूर्धनि ।
ॐ षं नमः भ्रुवोर्मध्ये । ॐ णं नमः शिखायाम् ।
ॐ वें नमः नेत्रयोः । ॐ नं नमः सर्वसन्धिषु ।
ॐ मः अस्त्राय फट् प्राच्याम्। ॐ मः अस्त्राय फट् आग्नेयाम्।
ॐ मः अस्त्राय फट् दक्षिणस्याम्। ॐ मः अस्त्राय फट् नैरृत्ये।
ॐ मः अस्त्राय फट् प्रतीच्याम्। ॐ मः अस्त्राय फट् वायव्ये ।
ॐ मः अस्त्राय फट् उदीच्याम्। ॐ मः अस्त्राय फट् ऐशान्याम्।
ॐ मः अस्त्राय फट् ऊर्ध्वायाम्। ॐ मः अस्त्राय फट् अधरायाम्॥
अथ श्रीनारायणकवचम् :-
राजोवाच :-
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥
श्रीशुक उवाच :-
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥
विश्वरूप उवाच :-
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥४॥
नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥
मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥
न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १०॥
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-
पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥
जलेषु मां रक्षतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥
मामुग्रधर्मादखिलात्प्रमादा-
न्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥
सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
धन्वन्तरिर्भगवान्पात्वपथ्या-
द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताञ्ज्जनान्ता-
द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥
द्वैपायनो भगवानप्रबोधा-
द्बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः ॥ १९॥
मां केशवो गदया प्रातरव्या-
द्गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥
देवोऽपराह्ने मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥ २१॥
श्रीवत्सधामापररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥
चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥ २३॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥
त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥
त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च ॥ २७॥
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥
यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
विदिक्षु दिक्षूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयँलोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥
......
॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥
॥ ॐ श्रीगणेशाय नमः॥
॥ ॐ नमो नारायणाय॥
अङ्गन्यासः -
ॐ ॐ नमः पादयोः । ॐ नं नमः जानुनोः ।
ॐ मों नमः ऊर्वोः । ॐ नां नमः उदरे ।
ॐ रां नमः हृदि । ॐ यं नमः उरसि ।
ॐ णां नमः मुखे । ॐ यं नमः शिरसि ॥
करन्यासः -
ॐ ॐ नमः दक्षिणतर्जन्याम् ।
ॐ नं नमः दक्षिणमध्यमायाम् ।
ॐ मों नमः दक्षिणानामिकायाम् ।
ॐ भं नमः दक्षिणकनिष्ठिकायाम् ।
ॐ गं नमः वामकनिष्ठिकायाम् ।
ॐ वं नमः वामानामिकायाम् ।
ॐ तें नमः वाममध्यमायाम् ।
ॐ वां नमः वामतर्जन्याम् ।
ॐ सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि ।
ॐ दें नमः दक्षिणांगुष्ठाय पर्वणि ।
ॐ वां नमः वामांगुष्ठोर्ध्वपर्वणि ।
ॐ यं नमः वामांगुष्ठाय पर्वणि ॥
विष्णुषडक्षरन्यासः -
ॐ ॐ नमः हृदये । ॐ विं नमः मूर्धनि ।
ॐ षं नमः भ्रुवोर्मध्ये । ॐ णं नमः शिखायाम् ।
ॐ वें नमः नेत्रयोः । ॐ नं नमः सर्वसन्धिषु ।
ॐ मः अस्त्राय फट् प्राच्याम्। ॐ मः अस्त्राय फट् आग्नेयाम्।
ॐ मः अस्त्राय फट् दक्षिणस्याम्। ॐ मः अस्त्राय फट् नैरृत्ये।
ॐ मः अस्त्राय फट् प्रतीच्याम्। ॐ मः अस्त्राय फट् वायव्ये ।
ॐ मः अस्त्राय फट् उदीच्याम्। ॐ मः अस्त्राय फट् ऐशान्याम्।
ॐ मः अस्त्राय फट् ऊर्ध्वायाम्। ॐ मः अस्त्राय फट् अधरायाम्॥
अथ श्रीनारायणकवचम् :-
राजोवाच :-
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥
श्रीशुक उवाच :-
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥
विश्वरूप उवाच :-
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥४॥
नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥
मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥
न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १०॥
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-
पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥
जलेषु मां रक्षतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥
मामुग्रधर्मादखिलात्प्रमादा-
न्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥
सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
धन्वन्तरिर्भगवान्पात्वपथ्या-
द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताञ्ज्जनान्ता-
द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥
द्वैपायनो भगवानप्रबोधा-
द्बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः ॥ १९॥
मां केशवो गदया प्रातरव्या-
द्गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥
देवोऽपराह्ने मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥ २१॥
श्रीवत्सधामापररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥
चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥ २३॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥
त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥
त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च ॥ २७॥
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥
यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
विदिक्षु दिक्षूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयँलोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥
......
॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥
Переглядів: 1 065
Відео
॥ Shri Kamla Kavacham॥॥ श्रीकमलाकवचम् ॥
Переглядів 54114 годин тому
॥ श्रीकमलाकवचम् ॥ श्रीगणेशाय नमः - ॐ अस्याश्चतुरक्षराविष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषीः । अनुष्टुप्छन्दः। वाग्भवा देवता । वाग्भवं बीजम्। लज्जा शक्तिः । रमा कीलकम्। कामबीजात्मकं कवचम्। मम सुकवित्वपाण्डित्यसमृद्धिसिद्धये पाठे विनियोगः । ऐङ्कारो मस्तके पातु वाग्भवां सर्वसिद्धिदा । ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १॥ जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि । ओष्ठाधारे दन...
॥Vishwamangal GuhyaKali Kavacham॥ विश्वमङ्गल गुह्यकालीकवचम्॥
Переглядів 47014 годин тому
॥ विश्वमङ्गल गुह्यकालीकवचम्॥ ॥Vishwamangal GuhyaKali Kavacham॥ ॥ गुप्त कलि कवचं ॥॥Gupt kali Kavacham॥ विनियोगः- ॐ अस्य श्रीविश्वमङ्गलनाम्नो गुह्यकाली महावज्र कवचस्य संवर्तऋषिरनुष्टुप्छन्दः, एकवक्त्रादि शत- -वक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, फ्रेंशक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वकात्मरक्षणे जपे विनियोगः॥ ॐ फ्रें पातु शिरः सिद्धिकराली कालिका मम । ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि...
॥ गङ्गाकवचम्॥ Ganga Kavacham॥ Ganga॥ गंगा ॥ कुम्भ॥ प्रयागराज ॥ त्रिवेणी संगम॥ Kumbh॥ Triveni Sangam॥
Переглядів 31216 годин тому
॥ श्रीगङ्गाकवचम् ॥ ॥ ॐ श्रीगणेशाय नमः॥ ॥ ॐ गङ्गायै नमः॥ विनियोगः - गङ्गाकवचस्य विष्णुरृषिविराट्छन्दः चतुर्दश पुरुष उद्धारण अर्थे पाठे विनियोगः । ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च । अभिषेके पूजने च पातु मां शुक्लरुपिणी ॥ १॥ विष्णुपादप्रसूतासि वैष्णवी नामधारिणी । पाहि मां सर्वतो रक्षेद्गङ्गा त्रिपथगामिनी ॥ २॥ मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा । अलकनन्दा च वामभागे पृथिव्यां या तु ति...
॥गङ्गाकवचम् दिव्यमङ्गलाख्यम्॥ Ganga Kavacham Divyamaglakhyam ॥
Переглядів 34219 годин тому
गङ्गाकवचम् दिव्यमङ्गलाख्यम् ॥ श्रीगणेशाय नमः ॥ ऋषय ऊचुः भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रविशारद! । श्रीगङ्गायास्तु कवचं ब्रूहि नो वदतां वर! ॥ १॥ गुप्तं सहस्रनामाख्यं स्तोत्रं परमपावनम् । इदानीं श्रोतुमिच्छामि गङ्गायाः कवचं शुभम् ॥ २॥ यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति । पापानि च विलीयन्ते वर्धन्ते धनसम्पदः ॥ ३॥ सनत्कुमार उवाच शृणुध्वं मुनयः सर्वे गुह्याद्गुह्यतरं परम् । जाह्नव्या दिव्यकवचं भुक्...
॥कालीकवचम् ॥ ॥ Kali Kavacham॥ ॥ Kali॥ ॥ काली ॥
Переглядів 1,5 тис.21 годину тому
कालीकवचम् श्रीमद्दक्षिणकालिकाकवचम् भैरव् उवाच - कालिका या महाविद्या कथिता भुवि दुर्लभा । तथापि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १॥ कवचन्तु महादेवि कथयस्वानुकम्पया । यदि नो कथ्यते मातर्व्विमुञ्चामि तदा तनुम् ॥ २॥ श्रीदेव्युवाच - शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् । न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३॥ कालिका जगतां माता शोकदुःखविनाशिनी । विशेषतः कलियुगे महापातकहारिणी ॥ ४॥ काली मे प...
॥ गङ्गासाम्राज्यकवचम् ॥ ॥ GANGASAMARAJYA KAVACHAM॥
Переглядів 940День тому
॥ गङ्गासाम्राज्यकवचम् ॥ ॥ श्रीगणेशाय नमः ॥ श्रीदेव्युवाच देवेश! परमेशान ! भक्तानुग्रहकारक ! । गङ्गायाः कवचं ब्रूहि यद्यहं तव वल्लभा ॥ १॥ श्रीशिव उवाच शृणु देवि ! प्रवक्ष्यामि गङ्गायाः कवचं शुभम् । यस्य स्मरणमात्रेण भवेत्साक्षान्महेश्वरः ॥ २॥ पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् । मोक्षप्रदं मुमुक्षूणां शृणु चैकमना प्रिये ! ॥ ३॥ ॐ ओङ्कारी ब्रह्मरूपा ब्रह्महत्यापहारिणी । तारिणी सर्वलोकानां दाय...
॥ श्रीगङ्गाध्यानम्॥Ganga Dhyanam॥ Kumbh Snan ॥ कुम्भ स्नान ॥ प्रयागराज ॥ Prayagraj॥Triveni Sangam॥
Переглядів 431День тому
॥ श्रीगङ्गाध्यानम् ॥ श्वेतचम्पकवर्णाभां गङ्गां पापप्रणाशिनीम् । कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥ १॥ वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् । शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ २॥ ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् । नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम् ॥ ३॥ बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् । सिन्दूरबिन्दुललितां सार्धं चन्दनबिन्दुभिः ॥ ४॥ कस्तूरीपत्रकं गण्डे ना...
॥ Shri Kamla Ashtottarshatnam Stotram॥॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् ॥
Переглядів 687День тому
॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् ॥ श्रीशिव उवाच - शतमष्टोत्तरं नाम्नां कमलाया वरानने । प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १॥ महामाया महालक्ष्मीर्महावाणी महेश्वरी । महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २॥ कालरात्रिः कुहूः पूर्णा नन्दाऽऽद्या भद्रिका निशा । जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३॥ शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा । महावराहजननी मदनोन्मथिनी मही ॥ ४॥ वैकुण्ठनाथरमणी व...
॥ SHRIKALIKA SHATNAMAWALI॥॥कालिकाशतनामावलिः॥ KALI ॥ काली ॥
Переглядів 1,5 тис.День тому
कालिकाशतनामावलिः (महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गते) श्रीकाल्यै नमः । श्रीकराल्यै नमः । श्रीकल्याण्यै नमः । श्रीकलावत्यै नमः । श्रीकमलायै नमः । श्रीकलिदर्पघ्न्यै नमः । श्रीकपर्दिशकृपान्वितायै नमः । श्रीकालिकायै नमः । श्रीकालमात्रे नमः । श्रीकालानलसमद्युतये नमः । श्रीकपर्दिन्यै नमः । श्रीकरालास्यायै नमः । श्रीकरुणाऽमृतसागरायै नमः । श्रीकृपामय्यै नमः । श्रीकृपाधारायै नमः । श्रीकृपापारायै नमः...
॥नित्य पठनीय श्लोक ॥ Nitya Pathaniya Shloka ॥ Daily Chanting Shlokas॥
Переглядів 1,7 тис.14 днів тому
नित्य पठनीय श्लोक माँ सरस्वती सरस्वती नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ भगवान् विष्णु आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ॥ दीप नमस्कार दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः । दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते नित्य पठनीय श्लोक वेदवाणी पंचदेव गणनाथसरस्वतीरविशुक्रबृहस्पतीन् । पंचैतान् संस्मरेन्नित्यं वेदवाणीप्रव...
॥Triveni Stotram॥ त्रिवेणीस्तोत्रम्॥ Prayagraj॥ प्रयागराज ॥अमृत स्नान॥ Amrut Snan॥ Shahi Snan॥
Переглядів 1,5 тис.14 днів тому
॥ त्रिवेणीस्तोत्रम्॥ मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी । मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी॥१॥ लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी। धर्माऽर्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी॥२॥ मुक्ताङ्गनामोहन-सिद्धवेणी भक्तान्तरानन्द-सुबोधवेणी। वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी॥३॥ दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी। स्व...
॥ Jiwanmukt Stotram॥॥ जीवन्मुक्तस्तोत्रम्॥
Переглядів 1,2 тис.14 днів тому
॥ जीवन्मुक्तस्तोत्रम्॥ अखण्डं परमाद्वैतं स्वतन्त्रं परमं शिवम् । सर्वगं सच्चिदानन्दं जीवन्मुक्तं नमाम्यहम् ॥ १॥ निरालम्बं निरातङ्कं द्वैताद्वैतविवर्जितम् । सर्वात्मानं सदा शान्तं जीवन्मुक्तं नमाम्यहम् ॥ २॥ चिन्मयं परमं तीर्थं सुनित्यं नित्यनिर्मलम्। ब्रह्मचित्तं सतां सेव्यं जीवन्मुक्तं नमाम्यहम्॥३॥ सर्वसद्गुणसम्पूर्णं शुद्धसत्त्वमयं शुभम्। जन्ममृत्युजरातीतं जीवन्मुक्तं नमाम्यहम्॥४॥ धन्यं धन्यं ...
॥अवियोगव्रतपूजाविधिः ॥॥देवीदेवानां नामावलिः॥
Переглядів 1,2 тис.14 днів тому
अवियोगव्रतपूजाविधिः देवीदेवानां नामावलिः विष्णुः सहस्रमूर्द्धा पुरुषः पद्मनाभो जनार्दनः । व्यासोऽपि कपिलाचार्यो भगवान्पुरुषोत्तमः ॥ ८॥ नारायणो मधुलिहो विष्णुर्दामोहरो हरिः । महावराहो गोविन्दः केशवो गरुडध्वजः ॥ ९॥ श्रीधरः पुण्डरीकाक्षो विश्वरूपस्त्रिविक्रमः । उपेन्द्रो वामनो रामो वैकुण्ठो माधवो ध्रुवः ॥ १०॥ वासुदेवो हृषीकेशः कृष्णः सकर्षणोऽच्युतः । अनिरुद्धो महायोगी प्रद्युम्नो नन्द एव च ॥ ११॥ श...
॥ Shri Shiv Raksha Stotram॥॥ श्रीशिवरक्षास्तोत्रम्॥
Переглядів 1,4 тис.14 днів тому
॥ श्रीशिवरक्षास्तोत्रम्॥ ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्॥१॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः॥२॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः। नयने मदनध्वंसी ...
॥ Vishnu Raksha Stotram ॥॥ विष्णु रक्षा स्तोत्रम् ॥
Переглядів 1,3 тис.14 днів тому
॥ Vishnu Raksha Stotram ॥॥ विष्णु रक्षा स्तोत्रम् ॥
॥Shri Vishnurapamarjan Kavacham॥॥ श्रीविष्णुरपामार्जनकवचम् ॥
Переглядів 92621 день тому
॥Shri Vishnurapamarjan Kavacham॥॥ श्रीविष्णुरपामार्जनकवचम् ॥
॥ Kuldevi Stotram॥॥ कुलदेवी स्तोत्रम्॥
Переглядів 11 тис.21 день тому
॥ Kuldevi Stotram॥॥ कुलदेवी स्तोत्रम्॥
॥ Shri Shani Raksha Stav॥॥ श्रीशनिरक्षास्तवः॥
Переглядів 79321 день тому
॥ Shri Shani Raksha Stav॥॥ श्रीशनिरक्षास्तवः॥
॥Shiv Stuti Vande Dev॥॥ शिवस्तुतिः वन्दे देव ॥
Переглядів 1,8 тис.21 день тому
॥Shiv Stuti Vande Dev॥॥ शिवस्तुतिः वन्दे देव ॥
॥ Shivopasana Mantra ॥॥ शिवोपासन मन्त्राः ॥
Переглядів 1,1 тис.21 день тому
॥ Shivopasana Mantra ॥॥ शिवोपासन मन्त्राः ॥
॥ Chhinnmasta Dwadashnam Stotram॥॥ छिन्नमस्ताद्वादशनामस्तोत्रम्॥
Переглядів 69621 день тому
॥ Chhinnmasta Dwadashnam Stotram॥॥ छिन्नमस्ताद्वादशनामस्तोत्रम्॥
॥ Chhinnmasta Hrudayam ॥॥ श्रीछिन्नमस्ताहृदयम्॥
Переглядів 1,1 тис.21 день тому
॥ Chhinnmasta Hrudayam ॥॥ श्रीछिन्नमस्ताहृदयम्॥
॥ Rudra LaghuNyas ॥॥ रुद्र लघुन्यासः ॥
Переглядів 1,5 тис.28 днів тому
॥ Rudra LaghuNyas ॥॥ रुद्र लघुन्यासः ॥
॥ Surya Namaskar Mantra ॥॥ सूर्यनमस्कार मन्त्र ॥
Переглядів 1,9 тис.28 днів тому
॥ Surya Namaskar Mantra ॥॥ सूर्यनमस्कार मन्त्र ॥
॥ Vishnu Stotram॥॥ विष्णुस्तोत्रम् ॥
Переглядів 1,4 тис.Місяць тому
॥ Vishnu Stotram॥॥ विष्णुस्तोत्रम् ॥
॥ SHIV SHADAKSHAR STOTRAM ॥॥ शिवषडक्षरस्तोत्रम्॥
Переглядів 1,5 тис.Місяць тому
॥ SHIV SHADAKSHAR STOTRAM ॥॥ शिवषडक्षरस्तोत्रम्॥
॥ SHIV PANCHAKSHAR STOTRA ॥॥ शिवपंचाक्षरस्तोत्रम्॥
Переглядів 1,2 тис.Місяць тому
॥ SHIV PANCHAKSHAR STOTRA ॥॥ शिवपंचाक्षरस्तोत्रम्॥