॥अवियोगव्रतपूजाविधिः ॥॥देवीदेवानां नामावलिः॥
Вставка
- Опубліковано 11 лют 2025
- अवियोगव्रतपूजाविधिः
देवीदेवानां नामावलिः
विष्णुः
सहस्रमूर्द्धा पुरुषः पद्मनाभो जनार्दनः ।
व्यासोऽपि कपिलाचार्यो भगवान्पुरुषोत्तमः ॥ ८॥
नारायणो मधुलिहो विष्णुर्दामोहरो हरिः ।
महावराहो गोविन्दः केशवो गरुडध्वजः ॥ ९॥
श्रीधरः पुण्डरीकाक्षो विश्वरूपस्त्रिविक्रमः ।
उपेन्द्रो वामनो रामो वैकुण्ठो माधवो ध्रुवः ॥ १०॥
वासुदेवो हृषीकेशः कृष्णः सकर्षणोऽच्युतः ।
अनिरुद्धो महायोगी प्रद्युम्नो नन्द एव च ॥ ११॥
शिवः
नित्यं स मे शुभः प्रीतः सश्रीकः केशशूलिनः ।
उमापतिर्नीलकण्ठः स्थाणुः शम्भुर्भगाक्षिहा ॥ १२॥
ईशानो भैरवः शूली त्र्यम्बकस्त्रिपुरान्तकः ।
कपर्दीशो महालिङ्गी महाकालो वृषध्वजः ॥ १३॥
शिवः शर्वो महादेवो रुद्रो भूतमहेश्वरः ।
ममास्तु सह पार्वत्या शङ्करः शङ्करश्चिरम् ॥ १४॥
ब्रह्मा
ब्रह्मा शम्भुः प्रभुः स्रष्टा पुष्करी प्रपितामहः ।
हिरण्यगर्भो वेदज्ञः परमेष्ठी प्रजापतिः ॥ १५॥
चतुर्मुखः सृष्टिकर्ता स्वयम्भूः कमलासनः ।
विरञ्चिः पद्मयोनिश्च ममास्तु वरदः सदा ॥ १६॥
सूर्यः
आदित्यो भास्करो भानुः सूर्योऽर्कः सविता रविः ।
मार्तण्डो मण्डलज्येतिरग्निरश्मिर्जनेश्वरः ॥ १७॥
प्रभाकरः सप्तसप्तिस्तरणिः सरणिः खगः ।
दिवाकरो दिनकरः सहस्रांशुर्मरीचिमान् ॥ १८॥
पद्मप्रबोधनः पूषा किरणी मेरुभूषणः ।
निकुम्भो वर्णभो देवः सुप्रीतोऽस्तु सदा मम ॥ १९॥
लक्ष्मी
लक्ष्मीः श्रीः सम्पदा पद्मा मा विभूतिर्हरिप्रिया ।
पार्वती ललिता गौरी उमा शङ्करवल्लभा ॥ २०॥
गायत्री प्रकृतिः सृष्टिः सावित्री वेधसो मता ।
राज्ञी भानुमती संज्ञा नित्यभा भास्करप्रिया ॥ २१॥
॥ इति भविष्यपुराणे उत्तरपर्वणि अष्टषष्टितमाध्यायान्तर्गतं
अवियोगव्रतपूजाविधिः (देवीदेवानां नामावलिः)समाप्तः॥