15 Mahanarayana Upanishad - Pujyasri Omkarananda Mahaswamiji

Поділитися
Вставка
  • Опубліковано 20 жов 2024
  • महानारायण उपनिषद्
    तैत्तिरीय अरण्यक - चतुर्थः प्रश्नः
    ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
    ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
    अम्भस्यपारे (4.1)
    अम्भ॑स्य पा॒रे भुव॑नस्य॒ मद्ध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् ।
    शु॒क्रेण॒ ज्योतीग्ं॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ।
    यस्मि॑न्नि॒दग्ं सञ्च॒ विचैति॒ सर्वं॒-यँस्मि॑-न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
    तदे॒व भू॒त-न्तदु॒ भव्य॑मा इ॒द-न्तद॒क्षरे॑ पर॒मे व्यो॑मन्न् ।
    येना॑ वृ॒त-ङ्खञ्च॒ दिव॑-म्म॒हीञ्च॒ येना॑दि॒त्य-स्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
    यम॒न्त-स्स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः ।
    यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ भूम्या᳚म् ।
    यदोष॑धीभिः पु॒रुषा᳚-न्प॒शूग्श्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ ।
    अतः॑ पर॒-न्नान्य॒-दणी॑यसहि॒ परा᳚-त्परं॒-यँ-न्मह॑तो म॒हान्त᳚म् ।
    यदे॑क-म॒व्यक्त॒-मन॑न्तरूपं॒-विँश्व॑-म्पुरा॒ण-न्तम॑सः॒ पर॑स्तात् ॥ 1.5
    तदे॒वर्त-न्तदु॑ स॒त्यमा॑हु॒-स्तदे॒व ब्रह्म॑ पर॒म-ङ्क॑वी॒नाम् ।
    इ॒ष्टा॒पू॒र्त-म्ब॑हु॒धा जा॒त-ञ्जाय॑मानं-विँ॒श्व-म्बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ ।
    तदे॒वाग्नि-स्तद्वा॒यु-स्तथ्सूर्य॒स्तदु॑ च॒न्द्रमाः᳚ ।
    तदे॒व शु॒क्रम॒मृत॒-न्तद्ब्रह्म॒ तदाप॒-स्स प्र॒जाप॑तिः ।
    सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।
    क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहो-रा॒त्राश्च॑ सर्व॒शः ।
    अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवँथ्स॒रश्च॑ कल्पन्ताम् ।
    स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒-मथो॒ सुवः॑ ।
    नैन॑-मू॒र्ध्व-न्न ति॒र्य-ञ्च॒ न मद्ध्ये॒ परि॑जग्रभत् ।
    न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ 1.10 (तै. अर. 6.1.2)
    न स॒दृंशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् ।
    हृ॒दा म॑नी॒षा मन॑सा॒-ऽभि क्लृ॑प्तो॒ य ए॑नं-विँ॒दु-रमृ॑ता॒स्ते भ॑वन्ति ।
    अ॒द्भ्य-स्सम्भू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ ।
    ए॒ष हि दे॒वः प्र॒दिशो-ऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒त-स्स उ॒ गर्भे॑ अ॒न्तः ।
    स वि॒जाय॑मान-स्सजनि॒ष्यमा॑णः प्र॒त्यं-मुखा᳚ स्तिष्ठति वि॒श्वतो॑मुखः ।
    वि॒श्वत॑श्च-क्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।
    स-म्बा॒हुभ्या॒-न्नम॑ति॒ स-म्पत॑त्रै॒-र्द्यावा॑ पृथि॒वी ज॒नय॑-न्दे॒व एकः॑ ।
    वे॒नस्त-त्पश्य॒न्. विश्वा॒ भुव॑नानि वि॒द्वान्. यत्र॒ विश्व॒-म्भव॒त्येक॑-नीलम् ।
    यस्मि॑न्नि॒दग्ं सञ्च॒ विचैक॒ग्ं॒ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ।
    प्रतद्वो॑चे अ॒मृत॒न्नु वि॒द्वा-न्ग॑न्ध॒र्वो नाम॒ निहि॑त॒-ङ्गुहा॑सु ॥ 1.15 (तै. अर. 6.1.3)
    त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता-ऽस॑त् ।
    स नो॒ बन्धु॑-र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ ।
    यत्र॑ दे॒वा अ॒मृत॑मान-शा॒नास्तृ॒तीये॒ धामा᳚न्य॒-भ्यैर॑यन्त ।
    परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒का-न्परि॒ दिशः॒ परि॒ सुवः॑ ।
    ऋ॒तस्य॒ तन्तुं॑-विँततं-विँ॒चृत्य॒ तद॑पश्य॒-त्तद॑भव-त्प्र॒जासु॑ ।
    प॒रीत्य॑ लो॒का-न्प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च ।
    प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒-ऽऽत्मान॑-म॒भि-सम्ब॑भूव ।
    सद॑स॒स्पति॒-मद्भु॑त-म्प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् ।
    सनि॑-म्मे॒धा म॑यासिषम् ।
    उद्दी᳚प्यस्व जातवेदो ऽप॒घ्नन्निर्-ऋ॑ति॒-म्मम॑ ॥ 1.19 (तै. अर. 6.1.4)
    प॒शूग्श्च॒ मह्य॒माव॑ह॒ जीव॑नञ्च॒ दिशो॑ दिश ।
    मानो॑ हिग्ंसी ज्जातवेदो॒ गामश्व॒-म्पुरु॑ष॒-ञ्जग॑त् ।
    अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ 1.21 (तै. अर. 6.1.5)
    गायत्री मन्त्राः (4.2)
    पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
    तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥।
    तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥
    तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥
    तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि । तन्नः॑ षण्मुखः प्रचो॒दया᳚त् ॥
    तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि । तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥
    वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि । तन्नो᳚ ब्रह्म प्रचो॒दया᳚त् ॥
    ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
    व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्ण-द॒ग्ग्॒ष्ट्राय॑ धीमहि । तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥
    भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि । तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥
    वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑ धीमहि । तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥
    का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ 1.33 (तै. अर. 6.1.5-7)

КОМЕНТАРІ •