Dr sahab aapne bahut hi shudha uchcharan ke saath is shatsk ka vachan Kiya hai .bahut. Bahut naman.aajkal aap jaise idwan Kam hi milte hain.punah aapko Naman.
You deleted the full video of Surya sathakam. Before We are following your Full video of Surya sathakam regularly. Many of us wating for this in full form
ఓం శ్రీ సూర్య నారాయణ దేవా 🙏❤️🙏
सूर्यशतकम्
महाकविश्रीमयूरप्रणीतम् ॥
श्री गणेशाय नमः ॥
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य । var सक्तैः
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १॥
भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां
लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये ।
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २॥
गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः
प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मान्
ऊष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३॥
प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्दीक्ष्य वीतावृतीन्प्राग्
जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।
ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालं शश्वत्सम्पादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४॥
न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधीः प्रोषिताभा
भास्वद्ग्रावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन ।
पक्षच्छेदव्रणासृक्स्रुत इव दृषदो दर्शयन्प्रातरद्रे- राताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५॥
शीर्णघ्राणाङ्घ्रिपाणीन्व्रणिभिरपघनैर्घर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौघै पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-
र्दत्तार्घाः सिद्धसंघैर्विदधतु घृणयः शीघ्रमंहोविधातम् ॥ ६॥
बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः
क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।
ध्वान्तादाच्छिद्य देवद्विष इव बलितो विश्वमाश्वश्नुवानाः var देवद्रुह
कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७॥
उद्गाढेनारुणिम्ना विदधति बहुलं येऽरुणस्यारुणत्वं
मूर्धोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।
शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशन्तु var शिखरशिखाः
प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८॥
दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः var अक्लिष्टसृष्टैः
पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावः
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९॥
बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां
लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।
युष्माकं ते स्वचित्तप्रथितपृथुतरप्रार्थनाकल्पवृक्षाः var प्रथिम
कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १०॥
धारा रायो धनायापदि सपदि करालम्बभूताः प्रपाते
तत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।
निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा-
स्त्रायन्तां तीव्रभानोर्दिवसमुखसुखा रश्मयः कल्मषाद्वः ॥ ११॥ var तीव्रभासः var कश्मलाद्वः
प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणित्वं
मुञ्चन्त्यो रोचनाम्भः प्रचुरमिव दिशामुच्चकैश्चर्चनाय । चाटूत्कैश्चक्रनाम्नां चतुरमविचलैर्लोचनैरर्च्यमाना- var सुचिरं
श्चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२॥
Dr sahab aapne bahut hi shudha uchcharan ke saath is shatsk ka vachan Kiya hai .bahut. Bahut naman.aajkal aap jaise idwan Kam hi milte hain.punah aapko Naman.
🙏🏻🙏🏻pls upload full audio everybody waiting ...
🙏🙏🌺🌺
excellent full video was disappear in youtube. we are fans of this full video please upload full video of surya sathakam
Plz upload full video of Surya sathakam
Hare Krishna
Plz upload full video plz plz plz
You deleted the full video of Surya sathakam. Before We are following your Full video of Surya sathakam regularly. Many of us wating for this in full form
Please upload full video
It is very nice to hear
Where can I hear the next part?
please upload full video