Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
श्रीगजेन्द्रमोक्षः श्रीशुक उवाचएवं व्यवसितो बुद्ध्या समाधाय मनोहृदि ।जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ||१॥गजेन्द्र उवाचनमो भगवते तस्मै यत एतच्चिदात्मकम् ।पुरुषायादिबीजाय परेशायाभिधीमहि ॥ २॥यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३॥यः स्वात्मनीदं निजमाययार्पितंक्वचिद्विभातं क्व च तत्तिरोहितम् ।अविद्धदृक् साक्ष्युभयं तदीक्षतेस आत्ममूलोऽवतु मां परात्परः ॥ ४॥कालेन पञ्चत्वमितेषु कृत्स्नशोलोकेषु पालेषु च सर्वहेतुषु ।तमस्तदाऽऽसीद्गहनं गभीरंयस्तस्य पारेऽभिविराजते विभुः ॥ ५॥न यस्यदेवा ऋषयःपदं विदु-र्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् ।यथा नटस्याकृतिभिर्विचेष्टतोदुरत्ययानुक्रमणः स मावतु ॥ ६॥दिदृक्षवो यस्य पदं सुमङ्गलंविमुक्त सङ्गा मुनयः सुसाधवः ।चरन्त्यलोकव्रतमव्रणं वनेभूतात्मभूताः सुहृदः स मे गतिः ॥ ७॥न विद्यते यस्य च जन्म कर्म वान नामरूपे गुणदोष एव वा ।तथापि लोकाप्ययसम्भवाय यःस्वमायया तान्यनुकालमृच्छति ॥ ८॥तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९॥नम आत्मप्रदीपाय साक्षिणे परमात्मने ।नमो गिरां विदूराय मनसश्चेतसामपि ॥ १०॥सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११॥नमः शान्ताय घोराय मूढाय गुणधर्मिणे ।निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२॥क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३॥सर्वेन्द्रियगुणदृष्टे सर्व प्रत्यय हेतवे ।असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४॥नमो नमस्तेऽखिलकारणायनिष्कारणायाद्भुतकारणाय ।सर्वागमाम्नायमहार्णवायनमोऽपवर्गाय परायणाय ॥ १५॥गुणारणिच्छन्नचिदूष्मपायतत्क्षोभविस्फूर्जितमानसाय ।नैष्कर्म्यभावेन विवर्जितागम-स्वयंप्रकाशाय नमस्करोमि ॥ १६॥मादृक्प्रपन्नपशुपाशविमोक्षणायमुक्ताय भूरिकरुणाय नमोऽलयाय ॥स्वांशेन सर्वतनुभृन्मनसि प्रतीत-प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १७॥आत्माऽऽत्मजाप्तगृहवित्तजनेषु सक्तै-र्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।मुक्तात्मभिः स्वहृदये परिभावितायज्ञानात्मने भगवते नम ईश्वराय ॥ १८॥यं धर्मकामार्थविमुक्तिकामाभजन्त इष्टां गतिमाप्नुवन्ति ।किं त्वाशिषो रात्यपि देहमव्ययंकरोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९॥एकान्तिनो यस्य न कञ्चनार्थंवाञ्छन्ति ये वै भगवत्प्रपन्नाः ।अत्यद्भुतं तच्चरितं सुमङ्गलंगायन्त आनन्दसमुद्रमग्नाः ॥ २०॥तमक्षरम्ब्रह्म परं परेश-मव्यक्तमाध्यात्मिकयोगगम्यम् ।अतीन्द्रियं सूक्ष्ममिवातिदूर-मनन्तमाद्यं परिपूर्णमीडे ॥ २१॥यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२॥यथार्चिषोऽग्नेः सवितुर्गभस्तयोनिर्यान्ति संयान्त्यसकृत्स्वरोचिषः ।तथा यतोऽयं गुणसम्प्रवाहोबुद्धिर्मनः खानि शरीरसर्गाः ॥ २३॥स वै न देवासुरमर्त्यतिर्यङ्न स्त्री न षण्डो न पुमान्न जन्तुः ।नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः ॥ २४॥जिजीविषे नाहमिहामुया कि-मन्तर्बहिश्चावृतयेभयोन्या ।इच्छामि कालेन न यस्य विप्लव-स्तस्यात्मलोकावरणस्य मोक्षम् ॥ २५॥सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६॥योगरन्धितकर्माणो हृदि योगविभाविते ।योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७॥नमो नमस्तुभ्यमसह्य वेग-शक्तित्रयायाखिलधीगुणाय ।प्रपन्नपालाय दुरन्तशक्तयेकदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८॥नायं वेद स्वमात्मानं यच्छक्त्याहन्धिया हतम् ।तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥ २९॥श्रीशुक उवाचएवं गजेन्द्रमुपवर्णितनिर्विशेषंब्रह्मादयो विविधलिङ्गभिदाभिमानाः ।नैते यदोपससृपुर्निखिलात्मकत्वात्तत्राखिलामरमयो हरिराविरासीत् ॥ ३०॥तं तद्वदार्त्तमुपलभ्य जगन्निवासःस्तोत्रं निशम्य दिविजैः सह संस्तुवभिः ।छन्दोमयेन गरुडेन समुह्यमान-श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१॥सोऽन्तस्सरस्युरुबलेन गृहीत आर्त्तोदृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-न्नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२॥तं वीक्ष्य पीडितमजः सहसावतीर्यसग्राहमाशु सरसः कृपयोज्जहार ।ग्राहाद्विपाटितमुखादरिणा गजेन्द्रंसम्पश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥ ३३॥
Jai Shri Lakshmi Narayan..... Very nice yeshwant ji..
Thank you
Wow 😍is this ur voice?
YesThanks for your appreciation
@@yashwantgupta2755 this is amazing 😍
श्रीगजेन्द्रमोक्षः
श्रीशुक उवाच
एवं व्यवसितो बुद्ध्या समाधाय मनोहृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ||१॥
गजेन्द्र उवाच
नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभिधीमहि ॥ २॥
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३॥
यः स्वात्मनीदं निजमाययार्पितं
क्वचिद्विभातं क्व च तत्तिरोहितम् ।
अविद्धदृक् साक्ष्युभयं तदीक्षते
स आत्ममूलोऽवतु मां परात्परः ॥ ४॥
कालेन पञ्चत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदाऽऽसीद्गहनं गभीरं
यस्तस्य पारेऽभिविराजते विभुः ॥ ५॥
न यस्यदेवा ऋषयःपदं विदु-
र्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमणः स मावतु ॥ ६॥
दिदृक्षवो यस्य पदं सुमङ्गलं
विमुक्त सङ्गा मुनयः सुसाधवः ।
चरन्त्यलोकव्रतमव्रणं वने
भूतात्मभूताः सुहृदः स मे गतिः ॥ ७॥
न विद्यते यस्य च जन्म कर्म वा
न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्ययसम्भवाय यः
स्वमायया तान्यनुकालमृच्छति ॥ ८॥
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९॥
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥ १०॥
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११॥
नमः शान्ताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२॥
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३॥
सर्वेन्द्रियगुणदृष्टे सर्व प्रत्यय हेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४॥
नमो नमस्तेऽखिलकारणाय
निष्कारणायाद्भुतकारणाय ।
सर्वागमाम्नायमहार्णवाय
नमोऽपवर्गाय परायणाय ॥ १५॥
गुणारणिच्छन्नचिदूष्मपाय
तत्क्षोभविस्फूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम-
स्वयंप्रकाशाय नमस्करोमि ॥ १६॥
मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरुणाय नमोऽलयाय ॥
स्वांशेन सर्वतनुभृन्मनसि प्रतीत-
प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १७॥
आत्माऽऽत्मजाप्तगृहवित्तजनेषु सक्तै-
र्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय ॥ १८॥
यं धर्मकामार्थविमुक्तिकामा
भजन्त इष्टां गतिमाप्नुवन्ति ।
किं त्वाशिषो रात्यपि देहमव्ययं
करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९॥
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमङ्गलं
गायन्त आनन्दसमुद्रमग्नाः ॥ २०॥
तमक्षरम्ब्रह्म परं परेश-
मव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूर-
मनन्तमाद्यं परिपूर्णमीडे ॥ २१॥
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२॥
यथार्चिषोऽग्नेः सवितुर्गभस्तयो
निर्यान्ति संयान्त्यसकृत्स्वरोचिषः ।
तथा यतोऽयं गुणसम्प्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः ॥ २३॥
स वै न देवासुरमर्त्यतिर्यङ्
न स्त्री न षण्डो न पुमान्न जन्तुः ।
नायं गुणः कर्म न सन्न चासन्
निषेधशेषो जयतादशेषः ॥ २४॥
जिजीविषे नाहमिहामुया कि-
मन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लव-
स्तस्यात्मलोकावरणस्य मोक्षम् ॥ २५॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६॥
योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७॥
नमो नमस्तुभ्यमसह्य वेग-
शक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८॥
नायं वेद स्वमात्मानं यच्छक्त्याहन्धिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥ २९॥
श्रीशुक उवाच
एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो विविधलिङ्गभिदाभिमानाः ।
नैते यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् ॥ ३०॥
तं तद्वदार्त्तमुपलभ्य जगन्निवासः
स्तोत्रं निशम्य दिविजैः सह संस्तुवभिः ।
छन्दोमयेन गरुडेन समुह्यमान-
श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१॥
सोऽन्तस्सरस्युरुबलेन गृहीत आर्त्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-
न्नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२॥
तं वीक्ष्य पीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जहार ।
ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं
सम्पश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥ ३३॥
Jai Shri Lakshmi Narayan..... Very nice yeshwant ji..
Thank you
Wow 😍is this ur voice?
Yes
Thanks for your appreciation
@@yashwantgupta2755 this is amazing 😍