श्री नारायणाष्टकम् | दुःख से मुक्त होकर सुखी होने हेतु | Shri Narayan Ashtakam + Hindi Meaning

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • श्री नारायणाष्टकम् | दुःख से मुक्त होकर सुखी होने हेतु | Shri Narayan Ashtakam by Balram Pandey with pure Sanskrit lyrics 🚩🙏
    जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष के लिए हमसे संपर्क कर सकते हैं।
    संपर्क सूत्र - 8445108265
    ।। श्रीनारायणाष्टकम् ।।
    वात्साल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
    दौदार्यादघशोषणादगणितश्रेयः-पदप्रापणात् ।
    सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
    प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः । १ ।
    प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय
    स्तंभे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
    वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन्
    आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः । २ ।
    श्रीरामोत्र विभीषणोऽयमनघो रक्षोभयादागतः
    सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् ।
    इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान्
    आर्तत्राणपरायणस्स भगवान्नारायणो मे गतिः । ३ ।
    नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा
    रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
    मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो
    ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः । ४ ।
    भोः कृष्णाच्युत भोः कृपालय हरे भोः पाण्डवानां सखे
    क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्।
    इत्युक्तोऽक्षयवस्त्रसंभृततनुं योऽपालयद् द्रौपदीम्
    आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः । ५ ।
    यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं
    यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् ।
    पाषाणोऽपि यदङ्घ्रिपद्मरजसा शापान्मुनेर्मोचितो
    ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः । ६ ।
    पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो दृष्ट्वा
    तत्सममारुरुक्षुरनघो मात्राऽवमानं गतः ।
    यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं
    ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ।७।
    आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।
    संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखा सुखिनो भवन्ति ।८।
    ॥ ॐ नमो भगवते वासुदेवाय ॥
    To Support us:-
    [Bharat 🇮🇳]-
    Google pay/PhonePe = 7295841147
    [From outside Bharat 🌎]
    Paypal- www.paypal.me/...
    Razorpay- rzp.io/l/TJnsmFR
    Telegram Group = t.me/BalramPan...
    Email- sanskritbalram@gmail.com
    #vishnu #ekadashi #narayan #stotram #sanatandharma #balrampandeysanskrit

КОМЕНТАРІ • 4

  • @shashibhushansingh9934
    @shashibhushansingh9934 4 місяці тому +4

    ॐ नमो भगवते वासुदेवाय नमः🙏🙏

  • @TaraKumariJi
    @TaraKumariJi 5 місяців тому +5

    ❤❤❤❤❤😊🎉🎉🎉🎉🎉🎉🎉❤ jay ho🙏🙏🙏🥰🥰🥰🥰

  • @abhayanand6509
    @abhayanand6509 4 місяці тому +5

    Gaane ki raag (saili )bhtt❣️ achha lga 🙏

  • @kuldeepvishwakarma1507
    @kuldeepvishwakarma1507 4 місяці тому +1

    ,🙏🙏🙏🙏🙏🚩🚩