विष्णु मंत्र - Vishnu Mantra ऊँ नमो भगवते वासुदेवाय I Om Namo Bhagvate Vasudevay || 2024

Поділитися
Вставка
  • Опубліковано 3 жов 2024
  • / @realtimebhajan
    ⭐SONG: Om Namo Bhagwate Vasudeva RT_3418
    ⭐STARRING:
    ⭐SINGER: Rashmi Arora
    ⭐MUSIC: Rajender Singh
    ⭐LYRICS/Writer: Traditional
    ⭐CAMERA/D.O.P:
    ⭐EDITOR/GRAPHICS: Ritu Gurung
    ⭐PRODUCER: Mukesh Nandal
    ⭐DIRECTOR: Omveer Singh
    ⭐Label - RealtimeBhajan 7206682860
    ॐ नमो भगवते वासुदेवाय
    गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् ।
    गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥
    ॥ २ ॥
    ॐ नमो भगवते वासुदेवाय
    नारायणं निराकारं नरवीरं नरोत्तमम् ।
    नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥
    ॥ ३ ॥
    ॐ नमो भगवते वासुदेवाय
    पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् ।
    पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥
    ॥ ४ ॥
    ॐ नमो भगवते वासुदेवाय
    राघवं रामचन्द्रं च रावणारिं रमापतिम् ।
    राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥
    ॥ ५ ॥
    ॐ नमो भगवते वासुदेवाय
    वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् ।
    विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥
    ॥ ६ ॥
    ॐ नमो भगवते वासुदेवाय
    दामोदरं दिव्यसिंहं दयालुं दीननायकम् ।
    दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥
    ॐ नमो भगवते वासुदेवाय
    मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् ।
    मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥
    ॥ ८ ॥
    ॐ नमो भगवते वासुदेवाय
    केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् ।
    कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥
    ॥ ९ ॥
    ॐ नमो भगवते वासुदेवाय
    भूधरं भुवनानन्दं भूतेशं भूतनायकम् ।
    भावनैकं भुजंगेशं तं वन्दे भवनाशनम् ॥
    ॥ १० ॥
    ॐ नमो भगवते वासुदेवाय
    जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् ।
    जामदग्न्यं परं ज्योतिस्तं वन्दे जलशायिनम् ॥
    ॥ ११ ॥
    ॐ नमो भगवते वासुदेवाय
    चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम् ।
    चराचरगतं देवं तं वन्दे चक्रपाणिनम् ॥
    ॥ १२ ॥
    ॐ नमो भगवते वासुदेवाय
    श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम् ।
    श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥
    ॥ १३ ॥
    ॐ नमो भगवते वासुदेवाय
    योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् ।
    यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥
    ॐ नमो भगवते वासुदेवाय
    शालिग्रामशिलाशुद्धं शंखचक्रोपशोभितम् ।
    सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम् ॥
    ॐ नमो भगवते वासुदेवाय - ॥ १५ ॥
    त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् ।
    त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥
    ॥ १६ ॥
    ॐ नमो भगवते वासुदेवाय
    अनन्तमादिपुरुषं अच्युतं च वरप्रदम् ।
    आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥
    ॥ १७ ॥
    ॐ नमो भगवते वासुदेवाय
    लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् ।
    लोकेश्वरं च श्रीकान्तं तं वन्दे लक्षमणप्रियम् ॥
    ॥ १८ ॥
    ॐ नमो भगवते वासुदेवाय
    हरिं च हरिणाक्षं च हरिनाथं हरप्रियम् ।
    हलायुधसहायं च तं वन्दे हनुमत्पतिम् ॥
    ॥ १९ ॥
    ॐ नमो भगवते वासुदेवाय
    हरिनामकृतामाला पवित्रा पापनाशिनी ।
    बलिराजेन्द्रेण चोक्त्ता कण्ठे धार्या प्रयत्नतः ॥

КОМЕНТАРІ •