Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Most precious ptotecting n positive energy sthotram.
आपदुन्मूलनदुर्गास्तोत्रम्लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तींदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीय धिष्ण्ये-ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण ।तं सामात्याप्तमित्रं महिषमभिनिहत्यास्यमूर्धाधिरूढांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ २ ॥विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु ।आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ३ ॥हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान् ।चामुण्डाख्यां दधानां उपशमितमहारक्तबीजोपसर्गांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ४ ॥ब्रह्मेशस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वभृत्याःकृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम् ।एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितां आत्तखड्गांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ५ ॥उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभम्भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।भीमा शाकंभरीति त्रुटितरिपुभटां रक्तदन्तेति जातांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ६ ॥त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैःत्रैलोक्यत्राणशीलां दनुजकुलवनीवह्निलीलां सलीलाम् ।देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ७ ॥सिंहारूढां त्रिनेत्रां करतलविलसत् शंखचक्रासिरम्यांभक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम् ।सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गींदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ८ ॥त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्थापाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्याः जनन्या ।तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गांदुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ९ ॥एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभंहृन्मोहध्वान्तभानुप्रतिममखिलसङ्कल्पकल्पद्रुकल्पम् ।दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम् ॥ १० ॥
Thanks sir
Nice & thanks for sharing lyrics and God bless you
Om Maa Durgaye namo
🙏🏻🙏🏻🙏🏻
Amme Saranam... Devi Saranam
Bombay sisters voice.., 💖
Suuuuuuuuuuuuuuuuuuuuuuuper
Sri Matrenamaha. Jaya Durga Jaya Durga Jaya Jaya Durga Jaya Bala Jaya Bala Jaya Jaya Bala. 🌹🌿🌷🙏🌹🌿🌷🙏
🙏🙏🙏🙏🙏
@Manoj kumar 💞🙏🌹
🙏🙏🙏🙏🙏 super
Please upload the last stanza also.Ur effort to upload this video is highly appreciated. Thank u
there is also one more 4 line which is missing I dont understand why such incomplete stothrams are uploaded in youtube
Please get the lyrics
Most precious ptotecting n positive energy sthotram.
आपदुन्मूलनदुर्गास्तोत्रम्
लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-
वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥
युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीय धिष्ण्ये-
ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण ।
तं सामात्याप्तमित्रं महिषमभिनिहत्यास्यमूर्धाधिरूढां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ २ ॥
विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-
त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु ।
आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ३ ॥
हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-
वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान् ।
चामुण्डाख्यां दधानां उपशमितमहारक्तबीजोपसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ४ ॥
ब्रह्मेशस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम् ।
एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितां आत्तखड्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ५ ॥
उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभम्
भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।
भीमा शाकंभरीति त्रुटितरिपुभटां रक्तदन्तेति जातां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ६ ॥
त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैः
त्रैलोक्यत्राणशीलां दनुजकुलवनीवह्निलीलां सलीलाम् ।
देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ७ ॥
सिंहारूढां त्रिनेत्रां करतलविलसत् शंखचक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम् ।
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ८ ॥
त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्याः जनन्या ।
तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ९ ॥
एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं
हृन्मोहध्वान्तभानुप्रतिममखिलसङ्कल्पकल्पद्रुकल्पम् ।
दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-
श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम् ॥ १० ॥
Thanks sir
Nice & thanks for sharing lyrics and God bless you
Om Maa Durgaye namo
🙏🏻🙏🏻🙏🏻
Amme Saranam... Devi Saranam
Bombay sisters voice.., 💖
Suuuuuuuuuuuuuuuuuuuuuuuper
Sri Matrenamaha. Jaya Durga Jaya Durga Jaya Jaya Durga Jaya Bala Jaya Bala Jaya Jaya Bala.
🌹🌿🌷🙏🌹🌿🌷🙏
🙏🙏🙏🙏🙏
@Manoj kumar 💞🙏🌹
🙏🙏🙏🙏🙏 super
Please upload the last stanza also.Ur effort to upload this video is highly appreciated. Thank u
there is also one more 4 line which is missing I dont understand why such incomplete stothrams are uploaded in youtube
Please get the lyrics